जषँ (जष्) हिंसायाम्

मूलधातुः

जषँ

धातुः

जष्

अर्थः

हिंसायाम्

गणः

भ्वादिः

पदि

परस्मैपदी

इट्

सेट्

वृत्तयः

कष
 
खष
 
शिष
 
जष
 
झष
 
शष
 
मष
 
रुष
 
रिष
 
हिंसार्थाः
 तृतीयषष्ठौ तालव्योष्मादी सप्तमो दन्त्योष्ठ्यादिः ( कषति चकाष कषितेत्यादि अकषत् अकाषीत् "अतो हलादे'' इति वा वृद्धिः (सर्वकषम् ) "सर्वकूलाभ्रकरीषेषु कषः''इति खच् अरुर्द्विषदजन्तस्यइति खिदन्त उत्तरपदे पूर्वपदस्य मुम् एवं कूलादिषूदाहार्यम् (विकाषी) "वौकषलषकत्थश्राम्भः'' इति तच्छीलादिषुधिनुण् (आकषः निकषः) "गोचर''आदिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् अधिकरणे घः आकषेण चरति, (आकषिकः) आकषात् ष्ठल्इति तृतीयान्तात् अस्मात् चरतीत्यर्थे ष्टल् षित्त्वात् (आकिषिकी) आकषे कुशलः, (आकषकः) आकषादिभ्यः कन्इति सप्तम्यन्तात् कुशल इत्यर्थे कन् ( निमृलकाषं कषति समूलकाषं कषति ) निमूलं समूलं च कषतीत्यर्थः "निमूलसमूलयोः कषः'' इति णमुल् उपपदसमासः कषादिषु यथाविध्यनुप्रयोगःइति यस्मात् णमुलो विधानं तस्यैवानुप्रयोगः, कषादयश्च "निमूलसमूलयोः कषः'' इत्यारभ्य "उपमाने कर्मणि च'' इत्येतदन्तेषूपात्ता धातवः अत्रानुशब्दो नानन्तर्येऽपि तु धात्वर्थानुवादेन पश्चामद्भावे, तेन व्यवहितपूर्वप्रयोगोऽपि द्रष्टव्यः तथा च वृत्तिः धातुसम्बन्धे प्रत्ययविधानादनुप्रयोगार्थं वचनमिति तथा "यथाविध्यनुप्रयोगः पूर्वस्मिन्'' इत्यत्र हरदत्तः अनुशब्दो धात्वर्थानुवादेन पश्चाद्भावे न त्वानन्तर्ये, पूर्वप्रयोगो व्यविहतप्रयोगोपि भवतीति न्यासे च अथ पूर्वप्रयोगस्य व्यवहिप्रयोगस्य च निवृत्यर्थे कस्मान्न भवति यथा "कृञ् चानुप्रयुज्यते लिटि'' इत्येतत् तन्नएतयोरिष्टत्वात् पादौ कषितुं शीलमस्य (पत्काषी ) "सुप्यजातौ णिनिस्ताच्छिल्ये'' इति णिनिः, "हिमकाषिइतिषु च'' इति हिमादावुत्तरपदे पादः पद्भावः (कष्टायते) कष्टाय क्रमणेइति चतुर्थ्यन्तादनार्जवे क्यङ्, क्रमणमिहानाजवम् कष्टं चिकीर्षत, (कष्टायते) अत्र "सत्रकक्ष'' इत्यादिना द्वितीयान्तात्कण्वचिकीर्षायां क्यङ् (कक्षः) "वृतिवदि'' इत्यादिना सप्रत्ययः "षढोः कः कस'' इति कत्वं, "तितुत्रेत'' इणिनषेधः ( कक्षायते ) "सत्रकक्षि'' इत्यादिना क्यङ् पप्रत्ययान्ता निपान्त्यते (शिषति शिशेष शिशयिथ शेष्टा शेक्ष्यति शेषतु अशेषत् शेषेत् आशिषि शिष्यात् अशिक्षत् ) "शल अगुपधा'' इति क्सः अनिट्त्वं च, शिषि पिषि श्लिष्यतिपुष्पती त्विषिमिति व्याघ्रभूतिवचनात् तदुक्तं पुरुषकारे शिषेरसर्वोपयोगे शपि शेषयति शेषतीत्युभौ, लुङ्यङ्भावादट्यशेषत् इति देवमुपादायाशेषीदित्युक्तं, शिषि पुषिमित्यनिट्कारिक्राप्रामाण्याच्छिषिमात्रस्यानि ट्त्वेन क्से सति अक्षिदिति यंक्तम् तथा मैत्रेयोपि शेष्टेत्यनिटमुदाजहार एवं च लिटि सेट्त्वं क्रादिनियमात्सिद्धम् एवं चास्य सेटो मध्ये पाठो यथा शिषिमात्रस्यानिट्त्वेन "शलइगुपधा''इति षान्तसाम्यातृ षान्तपरस्मैपदिसाम्याच्च द्रष्टव्यः (शिशिक्षति ) "हलन्ताच्च'' इति सनः कित्त्वम् (शेशिष्यते शेशेष्टि शेषयति अशीषित् शिष्ट्वा शिष्टः शिष्टान् शिष्टवान् शिष्टं) कालयोः "खष्पशिष्प''इति पप्रत्यये निपातितम् (जवति जजाष जेषतुः जषिता) इत्यादि कषिवत् किति लिटि सेटि थलि चैत्वाभ्यासलोपौ एवं ( झषति, शषतीत्यादि शष्पं ) पूर्ववत्पः वष आदानसंवरणयोरित्यिर्थे स्वरितेत (वषति ववाष ववषतुः वषितेत्यादि ) वादित्वान्नैत्वाभ्यासलोपौ ( मषतीत्यादि रोषति रुरोष रुरोषिथ रोषिता रोष्टा रोषिष्यति इत्यादि तकारादौ "तीषसहलुभरुषरिषः इतीङ्विकल्पः (रुषित्वा रुष्ट्वा ) इट्पक्षे "रलो व्युपधा'' इति कित्त्वविकल्पः निष्ठायां "रुष्यमत्वरसंघु षास्वनाम्'' इतीटो विकल्पनात् "यस्य विभाषा'' इति निषेधो भवति (रुष्टो, रुषितः ) "मतिबुद्धिपूजार्थेभ्यश्च'' इतृयत्र चकारस्यानुक्तसमुच्चयार्थत्वाद्वत्रमाने क्तः इट्पक्षे "उदुपधाद्भावादिकर्मणोरन्यतरस्याम्'' इति कित्त्वविकल्पनात्पक्षे गुणः ( रोषितमनेनेत्यादि भवति) रुष रोषइति दिवादौ चुरादौ च रेषतीत्यादि रोषतिवत् निष्ठायां"यस्य विभाष''इतीटो निषेधात् (रिष्टः) रेषत इति शब्दे गतः अत्र दण्डके मुषिरपि धातुः कोशे पठ्यते स्तेयार्थोयं पूर्ववच्चैष पठति इतीह पाठे नाभिनिवेष्टव्यम् हिंसार्थत्वे यदि दृश्यते तदा धातूनामनेकार्थत्वादृभविष्यति 681

कष
 
शिष
 
जष
 
झष
 
शष
 
वष
 
मष
 
मुष
 
रुष
 
रिष
 
हिंसार्थाः
 -कषति निकषोऽश्मा पत्काषी सर्वकूलाभ्र (3242) इति खच् कूलङ्कषः कृच्छ्रगहनयोः कषः (7222) इति क्तेऽनिट्-कष्टोऽग्निः निमूलसमूलयोः कषः (3424) इति णमुल् कषादिषु तैरेवानुप्रयोगः (द्र0 3446) समूलकाषं कषति वौ कषलस (32142) इति घिनुण्-विकाषी काषिः, कषी खनित्रम् कषेश्छ च (तु0 उ0 184) इति कच्छूः पामा वॄतॄवदि (उ0 362) इति सः कक्षस्तृणं बाहूरुमूलञ्च गृहोपान्ते तु कक्षा कक्ष्या च कषिदूषिभ्यामीकन् (तु0 उ0 416) कषीका शेषति रुधादौ शिष्लृ विशेषणे (719) विशिनष्टि चुरादौ शिष असर्वोपयोगे (10211) शेषयति, शेषः झषति झषः शषति शष्यते शष्पः मषी मष्यते माषः मोषति क्र्य्यादौ (961) मुष्णाति रोषति दिवादौ (4123) रुष्यति रुष्यन्ती रेषति दिवादौ रिष्यति तीषसहलुभ (72248) वेट्-रोष्टा रोषिता रुष्यमत्वर (72 28) इति वेट्-रुष्टः रुषित रेष्टा रेषिता रिष्टः, अरिष्टः खेषेत्यपीति कण्ठः-खषति खषः 664-673

कष
 
शिष
 
जष
 
झष
 
शष
 
वष
 
मष
 
रुष
 
रिष
 
हिंसार्थाः
 - कषति । कषिष्यति । समूलकाषं कषति । निमूलकाषं कषति । सर्वंकषः। कष्टम् । कषितम् । निकषः । पत्काषी । शेषति । शेष्टा । जषति । झषति । झषो मीनः । वषति । मषति । रोषति । रोषिता । रोष्टा । रुष्यतीति । दिवादिपाठात् रेषति । रेषिता । रेष्टा ।। 686-694 ।।

तिङन्त-रूपाणि

लट् (वर्तमान)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःजषतिजषतःजषन्ति
मध्यममध्यमपुरुषःजषसिजषथःजषथ
उत्तमउत्तमपुरुषःजषामिजषावःजषामः
लिट् (परोक्ष)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःजजाषजेषतुःजेषुः
मध्यममध्यमपुरुषःजेषिथजेषथुःजेष
उत्तमउत्तमपुरुषःजजाष/जजषजेषिवजेषिम
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःजषिताजषितारौजषितारः
मध्यममध्यमपुरुषःजषितासिजषितास्थःजषितास्थ
उत्तमउत्तमपुरुषःजषितास्मिजषितास्वःजषितास्मः
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःजषिष्यतिजषिष्यतःजषिष्यन्ति
मध्यममध्यमपुरुषःजषिष्यसिजषिष्यथःजषिष्यथ
उत्तमउत्तमपुरुषःजषिष्यामिजषिष्यावःजषिष्यामः
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःजषतु/जषतात्जषताम्जषन्तु
मध्यममध्यमपुरुषःजषतात्/जषजषतम्जषत
उत्तमउत्तमपुरुषःजषाणिजषावजषाम
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअजषत्अजषताम्अजषन्
मध्यममध्यमपुरुषःअजषःअजषतम्अजषत
उत्तमउत्तमपुरुषःअजषम्अजषावअजषाम
विधिलिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःजषेत्जषेताम्जषेयुः
मध्यममध्यमपुरुषःजषेःजषेतम्जषेत
उत्तमउत्तमपुरुषःजषेयम्जषेवजषेम
आशीर्लिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःजष्यात्जष्यास्ताम्जष्यासुः
मध्यममध्यमपुरुषःजष्याःजष्यास्तम्जष्यास्त
उत्तमउत्तमपुरुषःजष्यासम्जष्यास्वजष्यास्म
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअजाषीत्/अजषीत्अजाषिष्टाम्/अजषिष्टाम्अजाषिषुः/अजषिषुः
मध्यममध्यमपुरुषःअजाषीः/अजषीःअजाषिष्टम्/अजषिष्टम्अजाषिष्ट/अजषिष्ट
उत्तमउत्तमपुरुषःअजाषिषम्/अजषिषम्अजाषिष्व/अजषिष्वअजाषिष्म/अजषिष्म
लृङ् (भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअजषिष्यत्अजषिष्यताम्अजषिष्यन्
मध्यममध्यमपुरुषःअजषिष्यःअजषिष्यतम्अजषिष्यत
उत्तमउत्तमपुरुषःअजषिष्यम्अजषिष्यावअजषिष्याम

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःजष्यतेजष्येतेजष्यन्ते
मध्यममध्यमपुरुषःजष्यसेजष्येथेजष्यध्वे
उत्तमउत्तमपुरुषःजष्येजष्यावहेजष्यामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःजेषेजेषातेजेषिरे
मध्यममध्यमपुरुषःजेषिषेजेषाथेजेषिध्वे
उत्तमउत्तमपुरुषःजेषेजेषिवहेजेषिमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःजषिताजषितारौजषितारः
मध्यममध्यमपुरुषःजषितासेजषितासाथेजषिताध्वे
उत्तमउत्तमपुरुषःजषिताहेजषितास्वहेजषितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःजषिष्यतेजषिष्येतेजषिष्यन्ते
मध्यममध्यमपुरुषःजषिष्यसेजषिष्येथेजषिष्यध्वे
उत्तमउत्तमपुरुषःजषिष्येजषिष्यावहेजषिष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःजष्यताम्जष्येताम्जष्यन्ताम्
मध्यममध्यमपुरुषःजष्यस्वजष्येथाम्जष्यध्वम्
उत्तमउत्तमपुरुषःजष्यैजष्यावहैजष्यामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअजष्यतअजष्येताम्अजष्यन्त
मध्यममध्यमपुरुषःअजष्यथाःअजष्येथाम्अजष्यध्वम्
उत्तमउत्तमपुरुषःअजष्येअजष्यावहिअजष्यामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःजष्येतजष्येयाताम्जष्येरन्
मध्यममध्यमपुरुषःजष्येथाःजष्येयाथाम्जष्येध्वम्
उत्तमउत्तमपुरुषःजष्येयजष्येवहिजष्येमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःजषिषीष्टजषिषीयास्ताम्जषिषीरन्
मध्यममध्यमपुरुषःजषिषीष्ठाःजषिषीयास्थाम्जषिषीध्वम्
उत्तमउत्तमपुरुषःजषिषीयजषिषीवहिजषिषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअजाषिअजषिषाताम्अजषिषत
मध्यममध्यमपुरुषःअजषिष्ठाःअजषिषाथाम्अजषिध्वम्
उत्तमउत्तमपुरुषःअजषिषिअजषिष्वहिअजषिष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअजषिष्यतअजषिष्येताम्अजषिष्यन्त
मध्यममध्यमपुरुषःअजषिष्यथाःअजषिष्येथाम्अजषिष्यध्वम्
उत्तमउत्तमपुरुषःअजषिष्येअजषिष्यावहिअजषिष्यामहि