मूलधातुः
फणँ
धातुः
फण्
अर्थः
गतौ
गणः
भ्वादिः
पदि
परस्मैपदी
इट्
सेट्
वृत्तयः
मारणतोषणनिशामनेषु ज्ञा ढषु जानातिर्मिद्भवति (परं संज्ञपयति) मारयतीत्यर्थः (विष्णुं विज्ञपयति), संतोषयतीत्यर्थः (प्रज्ञपयति रूपं) दर्शयतीत्यर्थः कौमाराणां मतेनात्र सोपसर्गाः प्रदशिताः अन्यत्र ज्ञापयति बोधयतीत्यर्थः नेह निशामनं ज्ञापनमात्रं किं तु चक्षुः सज्ञधनं ज्ञानं, शम लक्ष आलोचन इत्यस्य हीदं रूपम्, आलोवचनं चक्षुर्विज्ञाने प्रसिद्धम् उक्तं चैवं वृत्तिकारादिभिः "त्यदादिषु दृशोनालोवने कञ्च'' "पश्यार्थैश्चानलोचने''इत्यादौ मैत्रेयपुरुषकारादिष्वपि निशामनं चक्षुर्विज्ञज्ञनमिति स्थितम् अत एव न्यासे "श्लाघन्हुड्स्था'' इत्यत्र ज्ञीप्स्यमान इति मारणादिषु पठितस्य घटादेः हेतुमण्णिव इत्युक्त्वा अथ वेत्यपरितोषात् "ज्ञपमिच्च'' इति चौरादिकस्य स्वाथे णाविति प्रक्रियान्तरमुक्तं, चौरादिकस्य ज्ञानज्ञापनयोर्वर्त्तत इति तत्रैव वक्ष्यते, तेन ज्ञापने ज्ञपयति, यदवज्ञापयेदित्यपि स्यादिति मैत्रेयोपि इहान्यत्र ज्ञपयति ज्ञापयतीति रूपद्वयं भवति तथा च देवः जानातीति श्नि सिद्धे ज्ञपयति तु पुनर्मारणादौ घटादौ णौ मित्त्वेपीदमेव ज्ञानमिति पदं ज्ञापने मारणादौ तेनार्थात् ज्ञापनेर्थे ज्ञपयतिपदवत् ज्ञापयेदित्यपि स्यादिति, तथा मैत्रेयोपि इहान्यत्र ज्ञापयति स्वामिनमित्युदाहृत्य चुरादौ "ज्ञपमिच्'' इत्यत्र ज्ञपयतीति मितमुदाहृत्य ज्ञापने मारणादिषु चाभिधानमस्येत्याह अत्र चन्द्रः "मारणतोषणिनिशानेषु'' इति वर्द्धमानश्चैवं ठित्वा निशानं तीक्ष्णीकरणमिति चाभिधाय निशामन इति के चित् निशामनं दर्शनमिति स्वामिशाकटायनौ वर्द्धमानवदेव, तत्र प्रज्ञपयति शरमित्युदाहरणं, तीक्ष्णीकरोतीत्यर्थः अत्र मित्तत्वं बोधिनासकारो न सहते यदाह प्रचीनास्तु निशानं नेच्छन्तीति एवं काश्यपसम्मताकारादयोपि, इति मैत्रेयाद्यङ्गीकृतो निशामनपाठ एव ज्यायान् यत्तूक्तं "श्लाघन्हुङ्'' इत्यत्र ज्ञीप्स्यमानो ज्ञपयितुमिष्यमाणो बोधयितुभिप्रेत इति वृत्तिग्रन्थमुपादाय हरदत्तेन निशामनं ज्ञानमात्रं न चक्षुर्विज्ञानमेव, यदाहबोधयितुभिप्रेत इति, कथं तर्हि प्रयुज्यते तज्ज्ञापयत्याचार्यः विज्ञापना भर्तृषु सिद्धमेतीति तस्मान्निशानेष्विति पाठः,शे तनूकरणे, ल्युट् ज्ञीप्स्यमानो ज्ञपयितुमिष्यमाण इति प्रयोगः "ज्ञप सिच्च'' इति चुरादिणिजन्तस्येति नात्र ज्ञापयतिप्रयोग उपोब्दलं निशानमिति पाठाङ्गीकारस्येति, यदस्माभिस्तत्सिद्धिरन्यथैवादौ साधिता अपरे तु प्रतिपन्ना निशामनंज्ञापनमात्रं ज्ञापयति प्रयोगो ज्ञा नियोग इति चौरादिकस्य धातूनामनेकार्थत्वात् इति, अनेकार्थाताङ्गीकारे ज्ञान इव मारणतोषणयोरपि ज्ञापयतीति स्यात् 799
कम्पने चलिः चल कम्पन इति ज्वलादौ तस्य मित्वार्थ एवानुवादः ( चलयति शाखाम् ) कम्पयतीत्यर्थः अन्यत्र शीलं चालयति, अन्यथा करोतीत्यर्थ इति स्वामी सूत्रं चालयति, क्षिपतीत्यर्थ इति सुधाकरः 800
छदिः ऊर्जने ऊर्जनं प्राणनं बलनं वा, ऊर्ज बलप्राणनयोरिति हि धातुः छदि अपवारणे इति यौजादिकस्य स्वार्थे णिजभावे ञित्वार्थोयमनुवादः धातूनामनेकार्थत्वात् ऊर्जने वृत्तिः (छदन्तं प्रयुङ्_णे छदयति बलवन्तं करोतीत्यर्थः) अन्यत्र छादयति, अपवारयन्तं प्रयुङ्ण इत्यर्थः यदा च छादयतीति स्वार्थे ण्यन्तस्तदा बलीभवति प्राणीभवति, अपवारयतीत्यर्थः अत्र बलप्राणनयोरपि "नान्ये मितोहेतौ'' इत्यमित्वम् अत्र स्वाम्यादयः छदि संवरणइति चौरादिकं छदेत्यनिदितं पठन्तः, तस्यायमूर्जने मित्वार्थो ऽनुवाद इत्याहुः तदयुक्तम् तस्यानिदित्पाठेपि नित्यण्यन्तत्वात् कर्तरि णिचोभावात् स्वार्थोपि णौ "नान्ये मितः'' इति मित्वं निषिद्धमेव अत्र देवः छर्दि धात्वन्तरं मन्यते यदाह यो वाप णावपवारणे छदतइत्येकं द्वितीयं वदन्नन्यं छायति छदयति पुनः स्यादूर्जनेर्थे मित इत्यादि, चौरादिकस्यैवस्मरत्यादिवत् अनेकार्थत्वाऽङ्गीकरणात् ऊर्जनेति छदतीति सिद्धे धात्वन्तीराऽङृगीकरणं परस्मैपदमेव यथा स्यादि तन्मतम् अनुवादे हिं तस्य स्वरितेत्त्वात् छदत इत्यपि स्यात् यद्यप्येतत्फलं भवति अथाप्यन्यत्र पठितानामिह पाठो मित्त्वमात्रुल इति घटतौ व्यवस्थापितत्त्वात् पृथक् धातुत्वं न सुलभम्. किं चेह धातुनिर्देशार्थमिकारनिर्देशादवश्यमनुवादत्वमेष्टव्यम्, यत्फलमुक्तं नित्यं परस्मैपदमेव यथा स्यादिति तच्छाकटायनमतेनैव प्रयोजनं, यतः चौरादिकः परस्मैपद्येव 801
जिह्वोन्मथने लडिः लड विलास इति पठितस्य मित्त्वार्थोयमनुवादः उन्मथनं ज्ञापनम् अत्र मैत्रेयस्य जिह्वाया उन्मथने इति मतम् यदाह लडयति जिह्वामिति अयमेवपक्षो गुप्तस्यापि पुरुषकार तु जिह्वया उन्मथने लडयति जिह्वयेत्युक्तं भवति अपरे तु जिह्वा चोन्मथनमिति समाहारद्वन्द्वं व्याचक्षते, जिह्वाशब्देन तद्विषयो व्यापार उच्यते अत्र चोन्मथने चेति लडयति शत्रुं, लडयति दधि चेति भवति धनपालस्त्वेवं पठित्वा आर्याणां जिह्लोन्मथनयोरिति पाठ इति स्वामी तु जिह्वोन्मथनयोर्लडीति, मन्थनमेव मथनम्, अन्यत्र लाडयति पुत्रम् चल्यादीनां त्रयाणामिकारो धातुनिर्देशार्थः 802
मदी हर्षग्लेपनयोः दैवादिकस्य मित्तविकारमुत्पादयतीत्यर्थः विचनमादयत्यक्षरव्यञ्जनानि स्पष्टमुचचारयतीत्यर्थः तथा चप्रातिशाख्यम् उपलब्धिर्विमाद इति, अक्षरव्यञ्जनानामिति शेषः 804
ध्वन शब्दे भाव्ययं मित्त्वार्थमनूद्यते (ध्वनयति घण्टाम् अन्त्र ध्यानयति)अस्पष्टाक्षरमुच्चारयतीत्यर्थः तथा च प्रातिशाख्यमक्षरव्यञ्जनानामुपलब्धिर्ध्वनिरिति अत्र भोजः दलिवलिस्खलिरणिध्वनिस्वनित्रपिक्षपयश्चेति पपाठ तत्र ध्वनिर्वर्द्धमानानुसारेण पठितः, उदाहृतश्च तथा रणिरपि दल विदारणे संवरणे, स्खल सञ्चलने, त्रपूष् लज्जायामितिगताः तेषां णौ दलयति, वलयति, स्खलस्यति,त्रपयतीति क्षपयति क्षै क्षयइति वक्ष्यमाणस्य कृतात्वस्य पुकि निर्देशः तथा च सुधाकरः क्षै क्षये णिचि पुकि मित्वे क्षपयतीति स्वन अवतंसने स्वनयति, अन्यत्र स्वानयति अयं शब्दार्थः पठिष्यते अत्र मैत्रेयः ध्वन शब्दे स्वन अवतंसनइत्येकइति 805
घटादयो मितःमित्संज्ञका इत्यर्थः।
"जनीजॄष्क्नसुरञ्जोमन्ताश्च'' चशब्दान्मित इत्यपकृष्यते जनी प्रादुर्भावे, जॄष् वयोहानौ क्नसु ह्वरणदीप्त्योः दिवादयः, रञ्जरागे भूवादिश्च अम् शब्दो ऽन्ते योषां ते अमन्ताः, यथासम्भवं सर्वेषु विकरणेषु ते च मितः ( जनयत जरयति ) जॄषिति षिद्विदशात् जृणातेरमित्त्वात् ( जारयतीति ) बोधिन्यासदौ मैत्रेया जृणातेः स्थाने ज्ञृ इत्येक इति चतुर्थादि च वक्ष्यति (क्नसयति रज्यति मृगान्, रमयतीत्यर्थः) [ रज्जेर्णौ मृगरमण उपसंख्यानम् ) इति नलोपः मृगादन्यत्र नलोपाभावे मित्वफलम् (अरञ्जि, अराञ्जीत्यादौ ) "चिण्णमुलोः'' इति दीर्घः अमन्ताः खल्चवि क्रमयति, गमयतीत्यादि अत्र के चित् "जनीजॄष्णसु'' इति अककारं सूत्र पठन्तः षकारमुत्तरधातोरादि व्याचक्षाणाः दैवादिकस्य निरसनार्थस्य स्नस्यतेः स्नसयतीति मित्वमाहुः तथा च दिवादात्रेयमैत्रेयौ ष्णसुनिरसन इत्येके मिदिति।
"ज्वलह्वलक्षलनमामनुपसर्गाद्वा'' ज्वलादीवां वा मित्त्वं भवति उपसर्गात् परेषां नायं विकल्प इत्यर्थः क्वचित्तु पठ्यते ज्वलह्वलनमोऽनुपसर्गाद् वेति तत्र न क्लेशो मित इति सम्बन्धः ज्वलादीनां पूर्वपाठात् प्राप्तिः, नमेस्त्वमन्तत्वात् (ज्वलयति ज्वालयति ह्वल यति, ह्वालयति ह्मलयति, ह्मालयति नमयति, नामयतीति ) उपसृष्टे तु नित्ये मित्त्वे प्रज्वलयतीत्यादि उन्नामयतीति प्रयोगो घञन्तात् "तत्करोति'' इति णौ एवमन्येषामपीदृशां निर्वाहः "मितां ह्रस्वः'' इति वृत्तौ "वाप चित्तविरागे'' इत्यतो वेत्यनुवृत्तेर्व्यवस्थितविभाषाविज्ञानाच्च संक्रामयतीत्यादिसिद्धिरिति यत्तु सुधाकरोक्तं घञन्तादुत्क्रामशब्दात् "तत्करोति'' इति णिचि उत्क्रामयतीति, तदयुक्तं, "नोदात्तोपदेशस्य'' इति वृद्धिनिपेघात् उत्क्रामशब्दस्यैवाभावात्।
"ग्लास्नावनुवमां च'' अनुपसर्गाद्वेति वर्त्तते पूर्ववत् व्याख्यानमत्रापि अत्रापि पूर्ववत् क्क चित् ग्लास्नावनुवमश्चेति प्रथमान्तं पठ्यते ग्लै हर्षक्षये अत्र स्नेति ष्णै शौचवेष्टनयोरिति वक्ष्यमाणस्य ष्णा शौवच इत्यादादिकस्य च, श्रा पाक इत्यत्रोक्तन्यायेन वनु चनोच्यत इति इह पठितो वनतिः अनन्तरस्य विधिरिति न्यायादनूद्यते न तु तानादिको वनोतिः डुवम उद्गिरणे अमन्तः तदयं वन्वमोः प्राप्ते ग्लास्नोरप्राप्ते इत्युभयत्र विभाषेयम् ( ग्लपयति ग्लापयति स्नपयति स्नापयति वनयति वानयति वमयति वामयति ) ग्लास्नोरुपसृष्टयोर्मित्वाभावात् ( प्रग्लापयति, प्रस्नापयतीत्येव) वनुवमोस्तु नियमितत्वात् (प्रवनयति प्रवमयतीत्येव )।
"न कम्यमिचमाम्'' कमु कान्तौ, अम गत्यादौ, चमु अदने, एषाममन्तत्वात् मित्त्वे प्राप्ते निषिध्यते ( कामयते आमयति आचामयति )
"न कम्यमिचमाम्'' कमु कान्तौ, अम गत्यादौ, चमु अदने, एषाममन्तत्वात् मित्त्वे प्राप्ते निषिध्यते ( कामयते आमयति आचामयति ) ।
"शमोऽदर्शन'' शम उपशमने दिवादिः अयं च दर्शने न मिदमन्तोपि, ( निशामयति रूपम् ) अत्युत्कृष्टमदिं तीर्थं भारद्वाज निशामयेति, शम लक्ष आलोचन इति चौरादिकः अस्मात् कारिते णावर्थो न संगच्छते दर्शनादन्यत्र निशमयति वचः अत्र स्वामी नेत्यनपेक्ष्य अदर्शन इति पदं दर्शनादन्यत्र मिदिति संव्याचष्ट एवमप्यत्र न फलभेदः।
"यमो ऽपरिवेषणे'' यम उपरम इत्यग्रे, अयं परिवेषणादन्यत्र भोजनाद् अन्यत्रामन्तो पि न मित (आयामयति) द्राघयति व्यापारयति वेत्यर्थः परिवेषणे तु (यमयति ब्राह्मणान् )अत्र स्वाम्यादयो नेत्यनपेक्ष्य परिवेषणादन्यत्र मिदिति व्याचक्षते, तद्वृत्तिविरुद्धम् तथाहि "पादमि'' इत्यत्र आयामयति इत्युदाहृत्य यमोपरिवेषण इति मित्संज्ञा प्रतिषिध्यते इति तत्र न्यासे च तत्र हि न कम्यमिचमात्यतो नेति प्रतिषेधो वर्त्तत इति, तथा मैत्रैयादयोपि नेत्यनुवृत्त्यैव व्याचक्षते नियमयतीति प्रयोगोयं "तत्करोति'' इति णौ द्रष्टव्यः।
स्खदिरवपरिभ्यां च न मिदिति शेषः (अवसुखादयति परिसखादयति) अपावपरिभ्य इति बोधिन्यासे अत्रापि स्वाम्यादयो नेत्यनपेक्ष्य स्खादेः पूर्ववाठात् सामान्येन प्राप्तं मित्वमुपसृष्टाद्यदि भवति अवाद्युपसृष्टादेवेति व्याचक्षाणाः प्रस्खादयतीत्यादौ मित्त्वं नेच्छन्ति इदं वृत्तिकारादीना मनभिमतम् यतस्तैः सर्वत्र नेत्यपेक्ष्यते, एवं हि निषेधानन्तरं पाठ उपपद्यते अन्यथ स्खद खदन इत्यस्यानन्तरमेव अवपरिभ्यां चेति पठेत् ( 1 ), ( 1 ) पाठात् सिद्धिरि क्वचित्पाठः द्विर्ग्रहणं च नस्ति द्विःस्खदिग्रहणं[न कर्त्तव्यं भवति।
फण
गतौ
नेति निवृत्तम्, असम्भवादिति मैत्रेयः निषेधात्पूर्वमपाठः फणादिकार्यानुरोधात् इति च ( फणति पप्तानाम् इति किति लिटि थलि च सेटि एत्वाभ्यासलोपविकल्पः ( फणितेत्यादि अफणीत् अफाणीत् )"अतो हलादेः'' इति वृद्धिविकल्पः ( फिणिषति पम्फण्यते ) अनुनासिकत्वान्नुक्, ( पम्फणीति पम्फाण्टि पम्फाण्टः ) "अनुनासिकस्य क्कि ज्ञलोः ङ्किति'' इति दीर्घः (पम्फाण्हीत्यत्र) हेर्ज्ञलः परत्वाभावात् धिभावो न भवति ( फणयति अपीफणत् ) अन्यत्र फाणयति सक्तून् स्नेहयतीत्यर्थइति स्वामिसम्मताकरौ ( फाण्टः ) "क्षुब्धस्वान्त'' इत्यादिना अनायासेनिट्त्वं निपात्यते अत्रानायासशब्देनाल्पप्रयाससाध्यः कषायविशेष उच्यते तथा हि औषधस्य पञ्चकल्पना, रसः, कल्कः शृतः, शीतः, क्काथः, शीतो नाम क्षुण्णमौषधमुदके प्रक्षिप्य रात्रावधिवासितं यदुदकं प्रातः पीयते सः, तदेवोष्णोदके प्रक्षिप्य सद्योभिषुच्य पूत्वा पीयते सफाण्ट इति तद्विदः 806
मारणतोषणनिशानेषु ज्ञा- निशानमुत्तेजनम् निशामन इत्येके पेठुः ज्ञाः अवबोधन (938) इत्ययं क्र्य्यादिर्मारणादौ मित् संज्ञपयति पशुम्, विष्णुं विज्ञपयाम्यहम्, प्रज्ञपयति शास्त्रम् अन्यत्र- राजानं विज्ञापयति, अवबोधने ज्ञापयति, प्राप्तिं प्रज्ञापयतीति ज्ञानार्थे तोषणे-एवमाज्ञप्तोऽस्मि सामाजिकैः कथम् प्रध्वंसाभावो ज्ञीप्स्यते, प्रछ ज्ञीप्सायाम् (6117) इति ज्ञापकाद् ह्रस्वोऽत्र आप्ज्ञप्यृधामीत् (7455) इति कृतह्रस्वस्येत्त्वात्, चुरादौ ज्ञपिर् (1075) अप्यहेतुण्णिचर्थः ज्ञीप्सत्यर्थ इत्येके चुरादौ ज्ञा नियोजने (10178) अस्मात्-आज्ञापय ज्ञातविशेषपुंसाम् इति
कम्पने चलिः- ज्वलादौ (1568) पठितस्यापि अस्येह मित्त्वार्थः पाठः इकार उच्चारणार्थः प्रचलयति लताम् अन्यत्र चालयति शीलम्, हरतीत्यर्थः
छदिर् ऊर्जने- छद संवरणे (1026) इत्ययं चुरादिरूजने प्राणने मित् छदयत्यग्निः, स्वार्थे णिच्, छादयन्तं प्रयुङ्क्त इति हेतौ वा अन्यत्र-छादयति गृहम् जिह्वोन्मन्थनयो र्लडिः लड विलासे (1250) इत्ययं भ्वादिर्जिह्वाविषयायां क्रियायामुन्मथने च मित् लडयति जिह्वाम्, ललयति दधि अन्यत्र लाडयति चित्रम्, लालयति बालम् लालितः लालितकः लालिका लाला जिह्वोन्मथन इति गुप्तः जिह्वाशतान्युल्ललयत्यभीक्ष्णम् चुरादौ लड उपसेवायाम् (107) लाडयति
मदी हर्षग्लेपनयोः- मदी हर्षे (4101) इत्ययं दिवादिरत्रार्थे मित् मदयति सुरा चैत्रम्, विमदयति शत्रुम् अन्यत्रानेकार्थत्वादुन्मादयति पुरुषम्, प्रमादयति
दलि-वलि-स्खलि-रणि-ध्वनि-क्षपि-त्रपयश्च इति श्रीभोजसूत्रम् (सर0 कण्ठा0 11192) दलयति दध्वान ध्वनयन्नाशाः
घटादयो मितः -उदाहृतमेतत्
जनीजॄषृक्रसुरञ्जोऽमन्ताश्च- जनी प्रादुर्भावे (440 जॄष् वयोहानौ (420) क्रसु ह्वरणदीप्त्यो (45) रञ्ज रागे (1726) इत्येते ऽमन्ताश्च मित्संज्ञाः जानयति जन जनने (324) इति जुहोत्यादिरपि गृह्यते, अन्यथार्थरूपयोरभेदात् विकल्पेनामित्त्वं ब्रूयात् वैदिको वाऽसौ जनयति जॄष् वयोहानौ (420) दिवादिः जरयति जृणातेः (923) तु जारयति पतिम्, जारयत्यभ्रकम् रञ्जेर्णौ मृगरमणे नलोपः (6424 वा0) रजयति मृगान् रमयति, भ्रमयति, संक्रमयति, विश्रमयति
ज्वलह्वलह्मलचल
नमामनुपसर्गाद्वा- एषां नित्यं मित्त्वं प्राप्तम्, अनुपसर्गाणां विकल्प्यते ज्वालयति, ज्वशयति ह्वालयति, ह्वलयति ह्मालयति, ह्मलयति चालयति, चलयति नामयति, नमयति सोपसर्गाणां तु नित्यम्- प्रज्वलयति, विह्वलयति, प्रह्मलयति, प्रचलयति, प्रणमयति
ग्ला-स्ना-वनु-वमाम्च- आद्ययोरप्राप्तौ विकल्पः, अन्त्ययोः प्राप्तौ एषामनुपसर्गात् मित्त्वं वा ग्लपयति, ग्लापयति स्नपयति, स्नापयति वनयति, वानयति वमयति, वामयति अनुपसर्गादित्येव-प्रग्लापयति, प्रस्नापयति, उपवनयति, उद्वमयति
न कमिअमिचमाम्- एषाममन्तत्वात् प्राप्ता मित्संज्ञा निषिध्यते कामयते आमयति आचामयति
शमो अदर्शने - शमु उपशमे (494) इत्यस्य दर्शनादन्यत्रार्थे मित्संक्षा अमन्तत्वात् सिद्धौ नियमार्थं वचः शमयति रोगम्, निशमयति श्लोकम् दर्शने तु-निशामयति रूपम् निःशर्कमिदं तीर्थं भरद्वाज निशामय पश्येत्यर्थः
यमोअपरिवेषणे- यम उपरमे (1711) इत्यस्य परिवेषणादन्यत्रैवार्थमित्संज्ञा यमयति, नियमयति परिवेषणे तु यामयति श्राद्धेऽन्नम् आयामयति चन्द्रम् अत्रैव स्वनोऽवतंसन इति दुर्गः-स्वनयति वस्त्रम्
स्खदिर् अपपरिभ्याञ्च- आभ्यामेवोपसर्गाभ्यां स्खदिः मित् अपस्खदयति परिस्खदयति अवेति-श्रीभोजः अवस्खदयति अन्योपसर्गपूर्वान्नास्ति- प्रस्खादयति
फण
गतौ
- फणति, फणयति फणाञ्च सप्तानाम् (64125) इत्येत्वाभ्यासलोपौ वा-पफणुः, फेणुः गतेरन्यत्र- फाणयति घटं, निःस्नेहयतीत्यर्थः क्षुब्ध-स्वान्त, ध्वान्त (7118) इत्यनायासे फाण्टं साधु फणेः पूर्वे घटादय इत्येके 790
मारणतोषणनिशामनेषु ज्ञा निशामनं चक्षुःसाधनं ज्ञानम् शम लक्ष आलोचन इत्यस्य चौरादिकस्य रूपमेतत् । मारणादिष्वर्थेषु जानातिर्मिद् भवति । ज्ञपयति । मारयति । तोषयति । निशामयतीति वा । एभ्योऽन्यत्र ज्ञापयत्यर्थम् । विज्ञापयति स्वामिनम् । ज्ञापयत्यर्थं ज्ञीप्स्यमान इति ज्ञप मिच्चेति चुरादिपाठात् । न्यासकारस्तु श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः (1/4/34) इत्यत्र निशामनशब्देन ज्ञानमुच्यत इति मतान्तरेणोक्तवान् । तथा च तज्ज्ञापयत्याचार्य्य इत्यादि प्रयोगा न सिध्यन्ति । मतान्तरेण तु तत्सिद्धिर्वेदितव्या ।। 816 ।।
कम्पने चलिः चल कम्पने इति ज्वलादौ । स च कम्पनेऽर्थे मित् । चलयति वातः शाखाम् । कम्पनादन्यत्र चालयति सूत्रम् (83) चालयति शूद्रं सार्थं वा ।। 817 ।।
छदिः ऊर्जने - छद अपवारण इति चुरादिः । तस्योर्जने बले प्राणने च मित्संज्ञार्थमिह पाठः । छदयति । स्वार्थिको वा णिच् । छदन्तं प्रयुङ्क्त इति वा । अपवारणे छादयति । ऊर्जनादन्यत्र हि छादयति ।। 818 ।।
जिह्वोन्मथने लडिः लड विलासे इत्ययं जिह्वयोन्मथने मित् । लडयति जिह्वया । जिह्वोन्मथनादन्यत्र लाडयति बालकम् । उन्मथनमुत्क्षेपणम् । डलयोरैक्याद् लालयेत् पञ्चवर्षाणीत्यादि साध ।। 819 ।।
मदी हर्षग्लेपनयोः हर्षग्लेपनयोर्माद्यतिर्मित् । मदयति । हर्षयति । ग्लेपयति वा (84) । आभ्यामन्यत्र मादयति ।। 820 ।।
ध्वन स्वन शब्दे- स्वन अवतंसन इत्येके । ध्वनयति । स्वनयति । शब्दावतंसनाभ्यामन्यत्र ध्वानयति । स्वानयति ।। 821,822 ।।
(2) घटादयो मितः ।अमी घटादयो मित्संज्ञकाः स्युः । मितां ह्रस्वः (6/4/92), चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (6/4/93) इति मित्संज्ञाफलम् ।
(3) जनीजृष्क्नसुरञ्जोऽमन्ताश्च । जायतिजीर्य्यतिक्नस्यतिरञ्जतयो मितः । अमन्ताश्च । जनयति । जरयति । क्नसयति । रञ्जेर्णौ । मृगरमणे (6/4/24, वा) इत्यनुनासिकलोपे अत उपधायाः (7/3/116) इति वृद्धौ मित्त्वे मितां ह्रस्वः (6/4/92) रजयति मृगान् । अमन्ताः गमयति । रमयति । यमयति । अमन्ताश्चेत्यकारोपादानात् तिम ष्टिम आर्द्रीभाव इत्येतस्य तेमयति ष्टेमयतीति ह्रस्वो न भवति ।
(4) ज्वलह्वलह्मलनमामनुपसर्गाद्वा । अनुपसर्गात् परेषां ज्वलादीनां वा मित्संज्ञा । सोपसर्गाणां तु नित्यमेव, पूर्वविधानात् । ज्वलयति ज्वालयति । ह्वलयति ह्वालयति । ह्मलयति ह्मालयति । नमयति नामयति । इह नित्यम्-प्रज्वलयति, प्रह्वलयति, प्रह्मलयति, प्रणमयति ।
(5) ग्लास्नावनुवमाञ्च । एषाञ्चानुपसर्गाणां मित्संज्ञा वा स्यात् । उभयत्र विभाषेयम् ग्ला स्ना इत्येतयोरप्राप्ते वनुवम्योः प्राप्ते तत्र वनतेर्वनु च नोच्यते इत्यनेन प्राप्ता वमेश्चामन्तत्वात् । ग्लपयति ग्लापयति । स्नपयति स्नापयति । वनयति वानयति । वमयति वामयति । सोपसर्गात् तु यथाप्राप्तम् । प्रग्लापयति । प्रस्नापयति । प्रवनयति । प्रवमयति ।
(6) न कम्यमिचमाम् । नैते मितः । कामयति । अमन्तत्वात् प्राप्ते णिङोऽभावपक्षे णिच्प्रत्यये मित्संज्ञाप्रतिषेधः । कामयति । अमयति । चामयति ।
(7) शमोऽदर्शने । नेति वर्तते । दर्शनार्थे शमिर्न मित् । निशामयति रूपम् । अन्यत्र शयति रोगम् । निशमयति वचः शृणोति (85) ।
(8) यमोऽपरिवेषणे । यमिर्न मित् । यामयति । आयामयते । परिवेषणे तु यमयति ब्राह्मणान् । कथं नियमयति संयमयति ? तत्करोति (3126 वा0) इति प्रातिपदिकाण्णिच्प्रत्ययः ।
(9) स्खदिरवपरिभ्याञ्च । अपस्खादयति । परिस्खादयति । आभ्यामन्यत्र स्खदयति । प्रस्खदयति (86) ।
फण
गतौ
- मिदित्यपेक्षते । नेति निवृत्तम् । अनुचितत्वात् असम्भवाच्च पूर्वमयं न पठ्यते, फणादिकार्य्यानुरोधात् । फणति । फणयति । पफाण । फेणतुः । पफणतुः । फेणुः । पफणुः । फाण्टम् । फणितम् ।वृत् । एतस्मात् पूर्वं वृत्करणमित्येके । फाणयति । संफाणयति । वृदिति समस्तघटादिगणपरिसमाप्त्यर्थम् ।। 823 ।।
तिङन्त-रूपाणि
लट् (वर्तमान)
| परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | फणति | फणतः | फणन्ति |
| मध्यममध्यमपुरुषः | फणसि | फणथः | फणथ |
| उत्तमउत्तमपुरुषः | फणामि | फणावः | फणामः |
लिट् (परोक्ष)
| परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | पफाण | फेणतुः/पफणतुः | फेणुः/पफणुः |
| मध्यममध्यमपुरुषः | फेणिथ/पफणिथ | फेणथुः/पफणथुः | फेण/पफण |
| उत्तमउत्तमपुरुषः | पफाण/पफण | फेणिव/पफणिव | फेणिम/पफणिम |
लुट् (अनद्यतन भविष्यत्)
| परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | फणिता | फणितारौ | फणितारः |
| मध्यममध्यमपुरुषः | फणितासि | फणितास्थः | फणितास्थ |
| उत्तमउत्तमपुरुषः | फणितास्मि | फणितास्वः | फणितास्मः |
लृट् (अद्यतन भविष्यत्)
| परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | फणिष्यति | फणिष्यतः | फणिष्यन्ति |
| मध्यममध्यमपुरुषः | फणिष्यसि | फणिष्यथः | फणिष्यथ |
| उत्तमउत्तमपुरुषः | फणिष्यामि | फणिष्यावः | फणिष्यामः |
लोट् (आज्ञार्थ)
| परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | फणतु/फणतात् | फणताम् | फणन्तु |
| मध्यममध्यमपुरुषः | फणतात्/फण | फणतम् | फणत |
| उत्तमउत्तमपुरुषः | फणानि | फणाव | फणाम |
लङ् (अनद्यतन भूत)
| परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | अफणत् | अफणताम् | अफणन् |
| मध्यममध्यमपुरुषः | अफणः | अफणतम् | अफणत |
| उत्तमउत्तमपुरुषः | अफणम् | अफणाव | अफणाम |
विधिलिङ्
| परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | फणेत् | फणेताम् | फणेयुः |
| मध्यममध्यमपुरुषः | फणेः | फणेतम् | फणेत |
| उत्तमउत्तमपुरुषः | फणेयम् | फणेव | फणेम |
आशीर्लिङ्
| परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | फण्यात् | फण्यास्ताम् | फण्यासुः |
| मध्यममध्यमपुरुषः | फण्याः | फण्यास्तम् | फण्यास्त |
| उत्तमउत्तमपुरुषः | फण्यासम् | फण्यास्व | फण्यास्म |
लुङ् (अद्यतन भूत)
| परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | अफाणीत्/अफणीत् | अफाणिष्टाम्/अफणिष्टाम् | अफाणिषुः/अफणिषुः |
| मध्यममध्यमपुरुषः | अफाणीः/अफणीः | अफाणिष्टम्/अफणिष्टम् | अफाणिष्ट/अफणिष्ट |
| उत्तमउत्तमपुरुषः | अफाणिषम्/अफणिषम् | अफाणिष्व/अफणिष्व | अफाणिष्म/अफणिष्म |
लृङ् (भविष्यत्)
| परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | अफणिष्यत् | अफणिष्यताम् | अफणिष्यन् |
| मध्यममध्यमपुरुषः | अफणिष्यः | अफणिष्यतम् | अफणिष्यत |
| उत्तमउत्तमपुरुषः | अफणिष्यम् | अफणिष्याव | अफणिष्याम |
लट् (वर्तमान)
| आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | फण्यते | फण्येते | फण्यन्ते |
| मध्यममध्यमपुरुषः | फण्यसे | फण्येथे | फण्यध्वे |
| उत्तमउत्तमपुरुषः | फण्ये | फण्यावहे | फण्यामहे |
लिट् (परोक्ष)
| आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | फेणे/पफणे | फेणाते/पफणाते | फेणिरे/पफणिरे |
| मध्यममध्यमपुरुषः | फेणिषे/पफणिषे | फेणाथे/पफणाथे | फेणिध्वे/पफणिध्वे |
| उत्तमउत्तमपुरुषः | फेणे/पफणे | फेणिवहे/पफणिवहे | फेणिमहे/पफणिमहे |
लुट् (अनद्यतन भविष्यत्)
| आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | फणिता | फणितारौ | फणितारः |
| मध्यममध्यमपुरुषः | फणितासे | फणितासाथे | फणिताध्वे |
| उत्तमउत्तमपुरुषः | फणिताहे | फणितास्वहे | फणितास्महे |
लृट् (अद्यतन भविष्यत्)
| आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | फणिष्यते | फणिष्येते | फणिष्यन्ते |
| मध्यममध्यमपुरुषः | फणिष्यसे | फणिष्येथे | फणिष्यध्वे |
| उत्तमउत्तमपुरुषः | फणिष्ये | फणिष्यावहे | फणिष्यामहे |
लोट् (आज्ञार्थ)
| आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | फण्यताम् | फण्येताम् | फण्यन्ताम् |
| मध्यममध्यमपुरुषः | फण्यस्व | फण्येथाम् | फण्यध्वम् |
| उत्तमउत्तमपुरुषः | फण्यै | फण्यावहै | फण्यामहै |
लङ् (अनद्यतन भूत)
| आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | अफण्यत | अफण्येताम् | अफण्यन्त |
| मध्यममध्यमपुरुषः | अफण्यथाः | अफण्येथाम् | अफण्यध्वम् |
| उत्तमउत्तमपुरुषः | अफण्ये | अफण्यावहि | अफण्यामहि |
विधिलिङ्
| आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | फण्येत | फण्येयाताम् | फण्येरन् |
| मध्यममध्यमपुरुषः | फण्येथाः | फण्येयाथाम् | फण्येध्वम् |
| उत्तमउत्तमपुरुषः | फण्येय | फण्येवहि | फण्येमहि |
आशीर्लिङ्
| आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | फणिषीष्ट | फणिषीयास्ताम् | फणिषीरन् |
| मध्यममध्यमपुरुषः | फणिषीष्ठाः | फणिषीयास्थाम् | फणिषीध्वम् |
| उत्तमउत्तमपुरुषः | फणिषीय | फणिषीवहि | फणिषीमहि |
लुङ् (अद्यतन भूत)
| आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | अफाणि | अफणिषाताम् | अफणिषत |
| मध्यममध्यमपुरुषः | अफणिष्ठाः | अफणिषाथाम् | अफणिध्वम् |
| उत्तमउत्तमपुरुषः | अफणिषि | अफणिष्वहि | अफणिष्महि |
लृङ् (भविष्यत्)
| आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
|---|---|---|---|
| प्रथमप्रथमपुरुषः | अफणिष्यत | अफणिष्येताम् | अफणिष्यन्त |
| मध्यममध्यमपुरुषः | अफणिष्यथाः | अफणिष्येथाम् | अफणिष्यध्वम् |
| उत्तमउत्तमपुरुषः | अफणिष्ये | अफणिष्यावहि | अफणिष्यामहि |