मूलधातुः
दिवुँ
धातुः
दिव्
अर्थः
द्युतौ
गणः
दिवादिः
पदि
परस्मैपदी
इट्
सेट्
वृत्तयः
वृत् जुहोत्यादयो वृत्ता इत्यर्थः
इति पूर्वदक्षिणपश्चिमसमुद्राधीश्वरकम्पराजसुतसङ्गममहाराजमहामन्त्रिणा मायणसुतेन माधवसहोदरेण सायणाचार्येण विरचितायां माधवीयायां धातुवृत्तौ जुहोत्यादयः
____________
ॐ
दिवादिगणः
अथ दिवादिः
दीङ् पर्यन्ता उदात्ता उदात्तेतः ।
दिवु
क्रीडा,विजिगीषा,व्यवहार,द्युति,स्तुति,मोद,मद,स्वप्न,कान्ति,गतिषु
एतदादयो दीङ् पर्यन्ता उदात्ता उदात्तेतः क्षिपिस्त्वनिट् ( अक्षैर्दीव्यति, अक्षान् दीव्यति, दीव्यतः दीव्यन्ति दीव्यामि) "दिवादिभ्यश्श्यन्'' इति श्यन् शपो ऽपवादः "हलि च'' इतीको दीर्घः "दिवः कर्म च'' इति दिवस्साधकतमस्य करणस्य सतः कर्मसंज्ञाविधानाद् अक्षशब्दात् तृतीयाद्वितीये पर्यायेण भवतः संज्ञासमावेशस्य प्रयोजनं मनसा दीव्यति मनसादेवो नाम कश्चिदित्यत्र मनसः कर्मत्वात्तस्मिन्नुपपदे अण्प्रत्ययः, करणत्वात्तृतीया च अत्र तृतीयाया"मनसः संज्ञायाम्'' इत्यनुक् तथाक्षैर्देवयते देवदत्तेनेत्यत्र संज्ञासमावेशेन करणानामेवाक्षाणां कर्मत्वाद् "अणावकर्मकात्'' इति परस्मैपदनियमो न भवति किञ्च "गतिकुद्धि'' इति प्रयोज्यस्य कर्मत्वमपि न भवति ( दिदेव दिदिवतुः, दिदिवुः, दिदिविथ, दिदिविव, दिदिविम देविता देविष्यति दीव्यतु, दीव्यतां, दीव्य, दीव्यानि, ) "अतो हेः'' इति हेर्लुक् ( अदीव्यत्, अदीव्यताम् अदीव्यः, अदीव्यम् दीव्येत्, दीव्येतां, दीव्येयुः दीव्येः, दीव्येयम् ) यासुटि "अतो येयः'' आद्गुणः यलोपो वलि, आशिषि, ( दीव्यात्, दीव्यास्ताम्, अदेवीत्, अदेविष्टाम्, अदेवीः, अदेविषम्, ) "नेटि'' इति न वृद्धिः ( दीव्यत् दीव्यन्ती कुले दीव्यन्ती ब्राह्मणी ) "नपुंसकाच्च'' इत्यौङश्शीभावः ङीप् उभयत्र "शप्श्यनोर्नित्यम्'' इति शीनद्योः परतो नित्यं नुम् ( दिदेविषति ) "सनीवन्त'' इति वेट् अन्यदा "हलन्ताच्च'' इति सनः कित्त्वे "च्छवोश्शूठ्'' इत्यूठि यणादेशे ( दुछूषति देदीव्यते ) ऊठ्द्भाविनां वकारान्तानां यङ्लुक्नास्तीति भूवादौ प्रतिपादितम् (देवयति अदीदिवत् देवः, देवी ) पचादिषु देवडिति पाठाद् इगुपधलक्षणं कं बाधित्वाऽचि टित्वान्ङीप् देवस्यापत्यादि ( दैव्यं दैवं ) "दित्यदित्यादित्य'' इत्यत्र "देवस्य यञञौ'' इति प्राग्दीव्यतीयेष्वर्थेषु यञञौ देवस्येदं ( देवकीयम् ) "गहादिभ्यश्च'' इत्यत्र [ देवस्य चेति वक्तव्यम् ] इति कुगागमच्छप्रत्ययश्च शैषिकः "नूनमस्य दैवानुग्रह' इति भाष्यप्रयोगादञपि भवति देव एव ( देवता ) "देवात्तल्'' इति स्वार्थे तल् स्वभावात्स्त्रीत्वम् दैवतैव ( दैवतम् ) प्रज्ञादित्वाद् अण् [ स्वार्थकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते ] इति पुंनपुंसकत्वम् पितृदेवतायै इदं ( पितृदैवत्यम् ) "देवतान्तात्तादर्थ्ये यत्'' इति यत् ( दैविकम् ) अध्यात्मादित्वाट्ठञ् (आधिदैविकम्) पूर्ववठ्ठञ् "अनुशतिकादीनां च'' इत्युभयपदवृद्धिः देवेषु वसति देवान् गच्छति ( देवत्रा ) "देवमनुष्य'' इत्यादिना त्राप्रत्ययः ( देविका ) देवीशब्दात्संज्ञायां कनि "केऽण'' इति ह्रस्वः देविकायां भवं ( दाविकम् ) देविकाकूले भवाः शालयः ( दाविकाकूलाः ) पूर्वदेविका नाम प्राचां ग्रामः तत्र भवः ( पूर्वदाविकः ) "देविकाशिंशपा'' इत्यादिना देविकाया अचामादेरच आकारः अयं चाकार अद्योरुदाहरणयोः "तद्धितेष्वचामादेः'' इति वृद्धिप्रसङ्गे इतरस्य तु "प्राचां ग्रामनगराणाम्'' इत्युत्तरपदवृद्धिप्रसङ्गे सुदेविकायां भवं ( सौदेविकम् ) इत्यत्र देविकाया अनङ्गादित्वात् समुदायस्याप्राग्ग्रामवाचित्वाच्च नास्ति देविकायां वृद्धेः प्राप्तिरिति वृद्धिप्रसङ्गे विधीयमानोऽयमाकारोऽपि नैव प्रसजति यस्तु ण्वुलन्तः क्रियाशब्दो देविकाशब्दो, न तस्येह ग्रहः, रूढ्या योगस्यापहारात् तेन तत्र दैविकमिति वृद्धिरेव भवति अत्रात्रेयः "देवको नाम क्षत्रियः, संज्ञायां ण्वुल् तस्यापत्यं ( दैवकिः ) अत इञि आदिवृद्धिः "इतो मनुष्यजातेः'' इति ङीष्, दैवकीनन्दनः शौरिः अवृद्धस्त्वयमसाधुः इति ( आदेवकः ) "दैविक्रुशोः'' इति ण्यन्तात् ताच्छील्यादौ वुञि ( देवित्वा, द्यूत्वा, ) "उदितो वा'' इतीड्विकल्पः इटि "न क्त्वा सेट्'' इत्यकित्त्वाद्गुणः, अन्यदा "च्छ्वोश्शूठ्'' इत्यूठि यणादेशः न च वर्णमात्राश्रयत्वेनान्तर्भूताश्रयत्वेन वा ऽन्तरङ्गे यणि बाह्यप्रकृतिप्रत्ययापेक्षस्य बहिरङ्गस्योठः "असिद्धं बहिरङ्गमन्तरङ्गे'' इत्यासिद्धत्वम्; "नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः' इति निषेधात्, अचोरानन्तर्ये यत्रान्तरङ्गे बहिरङ्गे वा विधावाश्रीयते न तत्र "असिद्धं बहिरङ्गमन्तरङ्गे' इति परिभाषा प्रवर्तत इत्यर्थः ( आद्यूनः ) "दिवोऽविजिगीषायाम्'' इति निष्ठानत्वम्, विजिगीषायां तु (द्यूतम्) "यस्य विभाषा'' इत्यनिट्त्वम् अक्षद्यूतेन निर्वृत्तम् (आक्षद्युतिकम्) "निर्वृत्तेऽक्षद्यूतादिभ्यः'' इति ठक् ( शतस्य दीव्यति ) "दिवस्तदर्थस्य'' इति कर्मणि षष्ठीतच्छब्देन व्यवहृपणौ परामृश्येते तदर्थत्वं च द्यूते क्रयविक्रययोश्च ( शतस्य प्रतिदीव्यति, शतं प्रतिदीव्यति) "विभाषेपसर्गे'' इति पूर्वेण नित्यं प्राप्तायां षष्ठ्यां तद्विकल्पः किकीतिदीव्यतीति ( किकीदिविः ) चापः, दीर्घद्वितीयः तथा च निघण्टुः "अथ चापः किकीदिविः' इति "कृविवृष्टिच्छविस्थविकिकीदिविः'' इति किकीशब्दउपपदे क्विनि निपात्यते रत्नकोशानसारिणस्तु दीर्घतृतीयं पठन्ति तैत्तिरीयकेऽपि दृश्यते "श्येनेन किकिदीविना''"छगलं कल्माषं किकिदीविम्' इति दीर्घतृतीयान्त एव ( द्यौः, ) "दिवोर्डिविः'' इति न्यासऊहितसूत्रेण व्युत्पादितम्, "दिव औत्'' इति सौ औत्, यणादेशः ( द्युभ्याम् ) इत्यादौ "दिव उत्'' इति दिवः पदस्योत्वम् शूड्विधौ क्ङिद्ग्रहणाननुवृत्तिवादिनः परोऽप्यूठ् इहाहर्विमलद्यु इत्यत्र सावकाशेनाप्युत्वेन तपरकरणसामर्थ्याद्वाध्यत इति परिहरन्ति दिव्ग्रहणे च धातोस्सानुबन्धकत्वेन न ग्रह इति अक्षद्यूः, अक्षद्युभ्यामित्यत्र क्विबन्ते औत्वोत्वयोर्नैव प्रसङ्गः ( दिव्यम् ) "द्युप्राक्'' इति यत् शैषिकः, "न भकुर्छुराम्'' इति दीर्धनिषेधः ( द्यावाभूमी ) "दिवो द्यावा'' इत्युत्तरपदे द्यावादेशः ( द्यावापृथिव्यौ, दिवस्पृथिव्यौ ) "दिवसश्च पृथिव्याम्'' इत्युत्तरपदे दिवस्भावो द्यावादेशश्च द्यावापृथिव्यौ देवता अस्य ( द्यावापृथिव्यम्, द्यावापृथिवीयम् ) "द्यावापृथिवीशुनाशीर'' इत्यादिना यच्छौ ण्यन्ताद्देवयतेः क्वौ णिलोपे [ क्वौ लुप्तं न स्थानिवत् ] इति स्थानिवत्त्वनिषेधाद् ऊट्ययदेशे दयूरिति भवति ( दय्वौ ) इत्यादौ "ओस्सुपि'' इति यणादेशः द्योरोको येषां ते ( दिवौकसः) अत्र विवदन्दे "दिव उत्''इत्यत्र रक्षितः "उत्त्वे कृते शब्दपरविप्रतिषेधात्तस्य यणि दिवोकस इत्यवृद्धिः'' इति चान्द्रास्तु पूर्ववद्यणि ओकारस्य पृषोदरादित्वाद्वृद्धिमाहुः अन्ये तु दीव्यन्त्यस्मिन्निति ( दिवम् ) [ घञर्थे कविधानम् ] इति कः, तत्र "वृद्धिरेचि'' इति वृद्धिरिति अस्य वृद्धिविषय एव प्रयोग इति केचित् अपरे तु सर्वत्रेति तथा च सुभूतिचन्द्राभ्यां प्रयोगो दर्शितः "मरुत्वता वृत्रवधे यथादिवम्'' इति त्रिदशा दीव्यन्त्यत्रेति ( त्रिदिवः ) पृषोदरादित्वाद् दशशब्दस्य लोपः, पूर्ववत्कः यद्वा ब्रह्मविष्णुमहेश्वरास्त्रयो दीव्यन्त्यत्रेति व्युत्पत्तिः देवते इति देवने शपि गतम् 1
वृत्-
अनुदात्ताः-
जिघर्त्यादयो द्वादश च्छान्दसाः
भट्टक्षीरस्वाम्युत्प्रेक्षितधातुवृत्तौ क्षीरतरङ्गिण्यां श्लुविकरणा जुहोत्यादयः सम्पन्नाः
दिवादिगणः
उदात्ता उदात्तेतः-
दिवु
क्रीडा,विजिगीषा,व्यवहार,द्युति,स्तुति,गतिषु
- व्यवहारः क्रयविक्रयादिः
इतः षुहान्ता (418) एकविंशतिः सेटः परस्मैपदिनश्च दिवादिभ्यः श्यन् (3163)-दीव्यति देविता दिवः कर्म च (1443) अक्षान् दीव्यति, अक्षैर्दीव्यति वा दिवस्तदर्थस्य (2358) इति षष्ठी शतस्य दीव्यति सनीवन्तर्ध (7249) इति वेट्-दुद्यूषति, छ्वोः शूडनुनासिके च (6419) इति दिदेविषति द्यूत्वा, देवित्वा न क्त्वा सेड् (1218) इति कित्त्वाभावः अक्षद्यूः पचादौ (गण 31134) देवः, देवी दिवोऽविजिगीषायां (8249) निष्ठानत्वम्-आद्यून औदरिकः विजिगीषायाम्-द्यूतम् वृषादिभ्यश्चित् (उ0 1106) देवलः शकादिभ्योऽटन् (उ0 481)-देवटः दिवेरृन् (तु0 उ0 299)-देवा पत्युः कनिष्ठो भ्राता तथा अर्तिकमिभ्रमि (उ0 3132) इति देवरः कृविघृष्वि (उ0 456) किकीदिविश्चाषः दिवो द्वे दीर्घश्चाभ्यासस्य (उ0 455) इति क्विन्-दीदिविरन्नम् दिवेर्डिव्-द्यौः 1
(1) छन्दसीति (9) इमौ जनगाधातूच्छान्दसा वित्यर्थः घृप्रभृतयोऽपिच्छन्दसीत्यनेन सम्बध्यन्त इति केचित्
वृत् इति जुहोत्यादिपरिसमाप्तेः
इति महामहोपाध्यायश्रीमैत्रेयरक्षितकृतौ धातुप्रदीपे जुहोत्यादीनां वृत्तिः 3
दिवादिगणः
अथ दिवादय उच्यन्ते
परस्मैभाषा उदात्ता एते, क्षिपिस्त्वनुदात्तः ।
दिवु
क्रीडा,विजिगीषा,व्यवहार,द्युति,स्तुति,कान्ति,मोद,मद,स्वप्न,गतिषु
- दीव्यति दिदेव दिदिवतुः दिदेविषति दुद्यूषति देवयति देवः अक्षद्यूः दीव्यन्ती देवित्वा द्यूत्वा द्यूतम् आद्यूनः क्विप्-द्यूः, द्युवौ देवा (1) 1
तिङन्त-रूपाणि
लट् (वर्तमान)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | दीव्यति | दीव्यतः | दीव्यन्ति |
मध्यममध्यमपुरुषः | दीव्यसि | दीव्यथः | दीव्यथ |
उत्तमउत्तमपुरुषः | दीव्यामि | दीव्यावः | दीव्यामः |
लिट् (परोक्ष)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | दिदेव | दिदिवतुः | दिदिवुः |
मध्यममध्यमपुरुषः | दिदेविथ | दिदिवथुः | दिदिव |
उत्तमउत्तमपुरुषः | दिदेव | दिदिविव | दिदिविम |
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | देविता | देवितारौ | देवितारः |
मध्यममध्यमपुरुषः | देवितासि | देवितास्थः | देवितास्थ |
उत्तमउत्तमपुरुषः | देवितास्मि | देवितास्वः | देवितास्मः |
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | देविष्यति | देविष्यतः | देविष्यन्ति |
मध्यममध्यमपुरुषः | देविष्यसि | देविष्यथः | देविष्यथ |
उत्तमउत्तमपुरुषः | देविष्यामि | देविष्यावः | देविष्यामः |
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | दीव्यतु/दीव्यतात् | दीव्यताम् | दीव्यन्तु |
मध्यममध्यमपुरुषः | दीव्यतात्/दीव्य | दीव्यतम् | दीव्यत |
उत्तमउत्तमपुरुषः | दीव्यानि | दीव्याव | दीव्याम |
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अदीव्यत् | अदीव्यताम् | अदीव्यन् |
मध्यममध्यमपुरुषः | अदीव्यः | अदीव्यतम् | अदीव्यत |
उत्तमउत्तमपुरुषः | अदीव्यम् | अदीव्याव | अदीव्याम |
विधिलिङ्
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | दीव्येत् | दीव्येताम् | दीव्येयुः |
मध्यममध्यमपुरुषः | दीव्येः | दीव्येतम् | दीव्येत |
उत्तमउत्तमपुरुषः | दीव्येयम् | दीव्येव | दीव्येम |
आशीर्लिङ्
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | दीव्यात् | दीव्यास्ताम् | दीव्यासुः |
मध्यममध्यमपुरुषः | दीव्याः | दीव्यास्तम् | दीव्यास्त |
उत्तमउत्तमपुरुषः | दीव्यासम् | दीव्यास्व | दीव्यास्म |
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अदेवीत् | अदेविष्टाम् | अदेविषुः |
मध्यममध्यमपुरुषः | अदेवीः | अदेविष्टम् | अदेविष्ट |
उत्तमउत्तमपुरुषः | अदेविषम् | अदेविष्व | अदेविष्म |
लृङ् (भविष्यत्)
परस्मैपरस्मैपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अदेविष्यत् | अदेविष्यताम् | अदेविष्यन् |
मध्यममध्यमपुरुषः | अदेविष्यः | अदेविष्यतम् | अदेविष्यत |
उत्तमउत्तमपुरुषः | अदेविष्यम् | अदेविष्याव | अदेविष्याम |
लट् (वर्तमान)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | दिव्यते | दिव्येते | दिव्यन्ते |
मध्यममध्यमपुरुषः | दिव्यसे | दिव्येथे | दिव्यध्वे |
उत्तमउत्तमपुरुषः | दिव्ये | दिव्यावहे | दिव्यामहे |
लिट् (परोक्ष)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | दिदिवे | दिदिवाते | दिदिविरे |
मध्यममध्यमपुरुषः | दिदिविषे | दिदिवाथे | दिदिविध्वे/दिदिविढ्वे |
उत्तमउत्तमपुरुषः | दिदिवे | दिदिविवहे | दिदिविमहे |
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | देविता | देवितारौ | देवितारः |
मध्यममध्यमपुरुषः | देवितासे | देवितासाथे | देविताध्वे |
उत्तमउत्तमपुरुषः | देविताहे | देवितास्वहे | देवितास्महे |
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | देविष्यते | देविष्येते | देविष्यन्ते |
मध्यममध्यमपुरुषः | देविष्यसे | देविष्येथे | देविष्यध्वे |
उत्तमउत्तमपुरुषः | देविष्ये | देविष्यावहे | देविष्यामहे |
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | दिव्यताम् | दिव्येताम् | दिव्यन्ताम् |
मध्यममध्यमपुरुषः | दिव्यस्व | दिव्येथाम् | दिव्यध्वम् |
उत्तमउत्तमपुरुषः | दिव्यै | दिव्यावहै | दिव्यामहै |
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अदिव्यत | अदिव्येताम् | अदिव्यन्त |
मध्यममध्यमपुरुषः | अदिव्यथाः | अदिव्येथाम् | अदिव्यध्वम् |
उत्तमउत्तमपुरुषः | अदिव्ये | अदिव्यावहि | अदिव्यामहि |
विधिलिङ्
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | दिव्येत | दिव्येयाताम् | दिव्येरन् |
मध्यममध्यमपुरुषः | दिव्येथाः | दिव्येयाथाम् | दिव्येध्वम् |
उत्तमउत्तमपुरुषः | दिव्येय | दिव्येवहि | दिव्येमहि |
आशीर्लिङ्
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | देविषीष्ट | देविषीयास्ताम् | देविषीरन् |
मध्यममध्यमपुरुषः | देविषीष्ठाः | देविषीयास्थाम् | देविषीध्वम्/देविषीढ्वम् |
उत्तमउत्तमपुरुषः | देविषीय | देविषीवहि | देविषीमहि |
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अदेवि | अदेविषाताम् | अदेविषत |
मध्यममध्यमपुरुषः | अदेविष्ठाः | अदेविषाथाम् | अदेविध्वम्/अदेविढ्वम् |
उत्तमउत्तमपुरुषः | अदेविषि | अदेविष्वहि | अदेविष्महि |
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदी | एकएकवचनम् | द्विद्विवचनम् | बहुबहुवचनम् |
---|---|---|---|
प्रथमप्रथमपुरुषः | अदेविष्यत | अदेविष्येताम् | अदेविष्यन्त |
मध्यममध्यमपुरुषः | अदेविष्यथाः | अदेविष्येथाम् | अदेविष्यध्वम् |
उत्तमउत्तमपुरुषः | अदेविष्ये | अदेविष्यावहि | अदेविष्यामहि |