चरँ (चर्) गतौ

मूलधातुः

चरँ

धातुः

चर्

अर्थः

गतौ

गणः

भ्वादिः

पदि

परस्मैपदी

इट्

सेट्

वृत्तयः

अभ्र
 
वभ्र
 
मभ्र
 
चर
 
गत्यर्थाः
 चरतिर्भक्षणार्थोपि ( अभग्रति आनभ्र अभ्रिता मा भवानभ्रीत् अङ्गान्त्यस्य रेफस्याकारसमीपत्वाभावात् "अतो ल्रान्तस्य'' इति न वृद्धिः ( अबिभ्रिषति अभ्रयति आबिभ्रत अभ्र्याद् ) इत्यत्र रेफस्य हलः परत्वाद्यम्परत्वाच्च "हलो यमाम्'' इति पाक्षिको लोपो न भवति तत्र यथासंख्याश्रयणात् तथा चोत्तरसूत्रे सवर्णग्रहणमर्थवत् उक्तं च वृत्त्यादौ सवणग्रहणस्य फलं शिण्डीत्यादौ यथासंख्यनिरासः (अभ्रम्) अच् भ्रमो वा व्यु व्युत्पादियष्यते ( अभ्री ) इनन्तः काष्ठकुद्दालः (अभ्रकम्) संज्ञायां कन् (बभ्रति बबभ्र बभ्रिता बिबभ्रिषति बाबभ्र्यते ) उक्तो रेफे लोपाभावः ( बाबभ्रित ) भकारेरुतकाराः संयुज्यन्तो "अनवि च'' इति भकारस्य पक्षे द्विर्वचने "झलां जश् झशि'' इति पूर्वस्य अश्त्वेन बाकरभकाररेफतकाराः द्रष्टव्याः लङि तिप्सिपोर्हल्ङयादिलोपे संयोगांतलोपे च "झलांजशोन्ते'' इति जश्त्वे च "वावसाने'' इति चर्त्वे ( अबाबब् अबाबप्) एवं (मभ्रतीत्यादि चरति चचार चेरतुः चेरुः चरितेतृयादि अचारीत् ) "अतो ल्रान्तस्य'' इति वृद्धिः (चिचरिषति चञ्चूर्यते ) "लुपसदचर'' इति भावगहांयामेव यङ् "चरुलोश्च'' इत्यभ्यासस्य नुकि "उत्परस्यात'' इत्युत्वे तस्य हल्परत्वे"हलि च'' इति दीर्घः ( चञ्चुरीति चञ्चूर्ति ) अत्र दीर्घस्य पूर्वत्रासिद्धत्वेन प्राप्तो लघूपधगुण उदिति तपरकरणसामर्थ्यान्न भवति, तपरत्वं हि विकारनिवृत्यर्थम् यद्येवं दीर्घोपि निवर्त्तेत इति न मन्तव्यम् यतस्तपरत्वेन निवृत्तौ प्रसक्तायामपि दीर्घृत्वमसिद्धम् (अचञ्चूः) लडि तिप्सिपोर्हल्ङयादिलोपे रेफस्य विसर्ज्जनीयः यदायमुत्पूर्वः सकम्ककस्तदा "उदश्चरः सकर्मकात्'' इति तङ्, गुरुवचनं (उच्चरन्त) इति उत्क्रम्य गच्छन्तीत्यर्थः तथासमुपसृष्टत् "समस्तृतीयायुक्तात्'' इति तङ् (अश्वेन सञ्चरतइति) सम इतीयं षष्ठी तेन व्यवहितेपि भवति (अश्वेन समुदाचरतेइति (चर्य्यम् "गदमदचर'' इति भावकर्मणोर्यत् अनुपसर्गे इति वचनात्सोपसर्गे उपचार्य्यामतिण्देव, (आचार्यादेशः [चरेराङि चा गुरौ] इति यत् गुवौत्वाचार्यु इति ण्यदेव आचार्य्यस्य स्त्री ( आचार्य्यानी ) "इन्द्रवरुण'' इत्यादिना ङीषानुकौ [ आचार्य्यादणत्वं च ] इति णत्वाभावः चरतीतिचरः चरडिति पचादिपाठादच् ठित् स्त्रिता स्त्रियां (चरी) चरस्य गोत्रापत्यं ( चारायण ) "नडादिभ्यः'' इति षष्ठ्यान्ताद्गोत्रापत्ये फक्, फस्यायनादेशः (चराचरः) [चरिचलिपतिवदीनां वा द्वित्वमच्याक्वाभ्यासस्य] इति अचि पक्षे द्विर्वचनम् अभ्यासस्यागागमः, आगमसामर्थ्यान्न्हलादिशेषः अन्यथादेशमेव कुर्यात् दीर्घेच्चारणसामर्थ्यान्न्ह्रस्वः (कल्याणाचारः कल्याणाचारा) "शीलिकामि'' इत्यादिना कर्म्मण्युपपदे णः कुरुषु चरतीति (कुरुचरः, ) "चरेष्टः'' इत्यधिकरणे उपपदे टप्रत्ययः टित्त्वात् स्त्रियां (कुरुचरी इक्षाचरः) "भिक्षासेनादायेषु च'' इति भिक्षादिषूपपदेषु टप्रत्ययः एवं (सेनाचर आदायवचर)इत्यनधिकरणार्थमिदं सूत्रम् (चरिष्णुः) "अलंकृञ्'' इत्यादिना इष्णुच् (अतिचारी अपचारी ) "सुप्यजातौ'' इति णिनिः,समानो ब्रह्मचारी (सब्रह्मचारी) चरणे ब्रह्मचारिणिइति चरणे गम्यमाने समानस्य सभावः चरणाशब्दः शाखाध्यायिषु रूढः, सब्रह्मचारिण इमे ( साब्रह्मचारः ) [ नान्तसय टिलोपे सब्रह्मचारिपीठपसर्प्पिकलापिकौथुमितैतिलिजाजिलिलाङ्गलिशिलालिशिखण्डिसूकरसह्मसुपर्वणामुनपसंख्यानम् ] इति टिलोपः चर्य्यतेनेतेति (चरित्रम्) "अर्त्तिलूधूसूखनसहचर हत्रः'' इतीत्रः, करणे प्रज्ञादिपाठात्स्वार्थे ऽणि चारत्रिम् (गोचरो विषयः सञ्चरो मार्गः) "गोचरसञ्चर'' इत्यधिकरणे घञ्प्रत्ययान्तो निपात्यते अत्र सञ्चरत्यनेनेति (सञ्च) इति वृत्तिः तत्र सुधाकरः "समस्तृतीयायुक्तात्''इति' तङा भाव्यमिति "परिचर्याचपरिसर्या'' इत्यादीना स्त्रियां भावे शे यक् चरितं तदिति (चर्म) "मन्'' इति मन् अयं "उणादयो बहुलम्'' "भूतेपि दृश्यन्ते'' इति भूते चर्माण्यस्याः सन्ति (चर्मण्वती नदी "आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती'' इति मतुपि नलोपाभावो णत्वंच संज्ञायां निपात्यते (चर्मी ) "व्रीह्मादिभ्यश्च'' इति मत्वर्थ इनिः "नस्तद्धिते'' इति टिलोपः चर्मिणोऽपत्यं (चार्मिकायणिः) "वाकिनादीनां कुक्च'' इति फिञ् कुक्चागमः कुकि नान्तत्वाभावेऽपि [ चर्मचर्मिणोर्नलोपश्चे ] इति वचनान्नलोपःसर्व चर्मणा कृतः (सर्वचर्मीणःसार्वचर्मीणः) सर्वचर्मणः कृतः खखञौइति कृत इत्यर्थे तृतीयान्ताद् अस्मात् खखञौ, सर्वचर्मण इत्यसमर्थः समासः, यतः सर्वशब्दस्य कृत इत्यनेन सम्बन्धो वृत्त्यादावुक्तः चर्मणः कोशः(चार्मः) "[चर्मणःकोश उपसंख्यानम् ]'' इति टिलोपः, अन्यत्र "अन्''इति प्रकृतिभावात(चार्मणं चक्षुः) (चारु) दृसनिजनिचरीति ञुण् प्रत्ययः(चरुः) भृमृशीतृचरीत्युप्रत्ययः अयं हि भीमादित्वादपादाने चरन्त्यस्मादिति हि व्युत्पत्तिः (चरकः) वुक्, चरकेण प्रोक्तमपि (चरकम्) "तेन प्रोक्तम्'' इत्यण्, "कठचरकाल्लुक्'' इति लक्, चरको नाम वैशम्पायनः उक्तं च "कलापिवैशम्पायनान्तेवासिभ्यश्च'' इत्यत्र ( बअलम्बिश्चरकः ) प्राचां पतिलिटिकमलानुभावान्युपादाय चरको नाम वैशम्पायन इति, तत्राभेदविवक्षायां भव्यादीनामिदं विशेषणपं, चरकाय हितं ( चारकीणम् ) "माणवचरकाभ्यां खञ्'' इति "तस्मै हितम्'' इति विषये खञ् चर सञ्चयन इति चुरादै 552

अभ्र
 
बभ्र
 
मभ्र
 
चर
 
गत्यर्थाः
 - अभ्रति अभ्रम् बभ्रति कृञो द्वे च कुर्भ्रश्च (तु0 उ0 122,23) इति बभ्रुर्नकुलः मभ्रति चरति 544-547

अभ्र
 
वभ्र
 
मभ्र
 
चर
 
गत्यर्था
 - अभ्रति । आनभ्र ।अभ्र्यते (70) । अभ्रम् । वभ्रति । वभ्र्यते ।मभ्रति । मभ्र्यते। चरतिर्भक्षणेऽपि ।पठ्यते। चरति । अचारीत् । चरितम् । चरित्रम् ।उदश्चरः सकर्मकात् (1/3/53) इति तङ्-गेहमुच्चरते । समस्तृतीयायुक्तात् (1/3/54) अश्वेन सञ्चरते । चञ्चूर्य्यते ।चञ्चूर्त्ति ।चञ्चुरीति । आचरितव्यम् । आचरणीयम् । आचार्य्यः। वा चरिचलि (6/1/12 वा0)इत्यादिना द्वित्वमागागमश्च-चराचरः ।व्रते (3/2/80) इति णिनिः-ब्रह्नचारी । सब्रह्मचारी ।। 557-560 ।।

तिङन्त-रूपाणि

लट् (वर्तमान)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचरतिचरतःचरन्ति
मध्यममध्यमपुरुषःचरसिचरथःचरथ
उत्तमउत्तमपुरुषःचरामिचरावःचरामः
लिट् (परोक्ष)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचचारचेरतुःचेरुः
मध्यममध्यमपुरुषःचेरिथचेरथुःचेर
उत्तमउत्तमपुरुषःचचार/चचरचेरिवचेरिम
लुट् (अनद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचरिताचरितारौचरितारः
मध्यममध्यमपुरुषःचरितासिचरितास्थःचरितास्थ
उत्तमउत्तमपुरुषःचरितास्मिचरितास्वःचरितास्मः
लृट् (अद्यतन भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचरिष्यतिचरिष्यतःचरिष्यन्ति
मध्यममध्यमपुरुषःचरिष्यसिचरिष्यथःचरिष्यथ
उत्तमउत्तमपुरुषःचरिष्यामिचरिष्यावःचरिष्यामः
लोट् (आज्ञार्थ)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचरतु/चरतात्चरताम्चरन्तु
मध्यममध्यमपुरुषःचरतात्/चरचरतम्चरत
उत्तमउत्तमपुरुषःचराणिचरावचराम
लङ् (अनद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअचरत्अचरताम्अचरन्
मध्यममध्यमपुरुषःअचरःअचरतम्अचरत
उत्तमउत्तमपुरुषःअचरम्अचरावअचराम
विधिलिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचरेत्चरेताम्चरेयुः
मध्यममध्यमपुरुषःचरेःचरेतम्चरेत
उत्तमउत्तमपुरुषःचरेयम्चरेवचरेम
आशीर्लिङ्
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचर्यात्चर्यास्ताम्चर्यासुः
मध्यममध्यमपुरुषःचर्याःचर्यास्तम्चर्यास्त
उत्तमउत्तमपुरुषःचर्यासम्चर्यास्वचर्यास्म
लुङ् (अद्यतन भूत)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअचारीत्अचारिष्टाम्अचारिषुः
मध्यममध्यमपुरुषःअचारीःअचारिष्टम्अचारिष्ट
उत्तमउत्तमपुरुषःअचारिषम्अचारिष्वअचारिष्म
लृङ् (भविष्यत्)
परस्मैपरस्मैपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअचरिष्यत्अचरिष्यताम्अचरिष्यन्
मध्यममध्यमपुरुषःअचरिष्यःअचरिष्यतम्अचरिष्यत
उत्तमउत्तमपुरुषःअचरिष्यम्अचरिष्यावअचरिष्याम

लट् (वर्तमान)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचर्यतेचर्येतेचर्यन्ते
मध्यममध्यमपुरुषःचर्यसेचर्येथेचर्यध्वे
उत्तमउत्तमपुरुषःचर्येचर्यावहेचर्यामहे
लिट् (परोक्ष)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचेरेचेरातेचेरिरे
मध्यममध्यमपुरुषःचेरिषेचेराथेचेरिध्वे/चेरिढ्वे
उत्तमउत्तमपुरुषःचेरेचेरिवहेचेरिमहे
लुट् (अनद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचरिताचरितारौचरितारः
मध्यममध्यमपुरुषःचरितासेचरितासाथेचरिताध्वे
उत्तमउत्तमपुरुषःचरिताहेचरितास्वहेचरितास्महे
लृट् (अद्यतन भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचरिष्यतेचरिष्येतेचरिष्यन्ते
मध्यममध्यमपुरुषःचरिष्यसेचरिष्येथेचरिष्यध्वे
उत्तमउत्तमपुरुषःचरिष्येचरिष्यावहेचरिष्यामहे
लोट् (आज्ञार्थ)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचर्यताम्चर्येताम्चर्यन्ताम्
मध्यममध्यमपुरुषःचर्यस्वचर्येथाम्चर्यध्वम्
उत्तमउत्तमपुरुषःचर्यैचर्यावहैचर्यामहै
लङ् (अनद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअचर्यतअचर्येताम्अचर्यन्त
मध्यममध्यमपुरुषःअचर्यथाःअचर्येथाम्अचर्यध्वम्
उत्तमउत्तमपुरुषःअचर्येअचर्यावहिअचर्यामहि
विधिलिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचर्येतचर्येयाताम्चर्येरन्
मध्यममध्यमपुरुषःचर्येथाःचर्येयाथाम्चर्येध्वम्
उत्तमउत्तमपुरुषःचर्येयचर्येवहिचर्येमहि
आशीर्लिङ्
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःचरिषीष्टचरिषीयास्ताम्चरिषीरन्
मध्यममध्यमपुरुषःचरिषीष्ठाःचरिषीयास्थाम्चरिषीध्वम्/चरिषीढ्वम्
उत्तमउत्तमपुरुषःचरिषीयचरिषीवहिचरिषीमहि
लुङ् (अद्यतन भूत)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअचारिअचरिषाताम्अचरिषत
मध्यममध्यमपुरुषःअचरिष्ठाःअचरिषाथाम्अचरिध्वम्/अचरिढ्वम्
उत्तमउत्तमपुरुषःअचरिषिअचरिष्वहिअचरिष्महि
लृङ् (भविष्यत्)
आत्मनेआत्मनेपदीएकएकवचनम्द्विद्विवचनम्बहुबहुवचनम्
प्रथमप्रथमपुरुषःअचरिष्यतअचरिष्येताम्अचरिष्यन्त
मध्यममध्यमपुरुषःअचरिष्यथाःअचरिष्येथाम्अचरिष्यध्वम्
उत्तमउत्तमपुरुषःअचरिष्येअचरिष्यावहिअचरिष्यामहि

वृत्तिषु पाठितानि कानिचन कृदन्त-प्रातिपदिकानि